Monday, December 29, 2014

पित्रे कुलदैवत - उत्सवदिन.

Pitre kuladaivat Utsav day 
पित्रे कुलदैवत श्री प्रयागमाधव ( श्री महाविष्णु )  
आणि कुलदेवी श्री दुर्गा ह्यांचा उत्सवदिन. 
माघ पौर्णिमा

Wednesday, September 10, 2014

SANSKRIT STOTRA

|| विनायक विनतिः ||
श्रीगणेशाय नमः |
हेरम्बमम्बामवलम्बमानं लम्बोदरं लम्ब-वितुण्ड-शुण्डम् |
उत्सङ्गमारोपयितुं ह्यपर्णां हसन्तमन्तर्हरिरूपमीडे ||१||
मिलिन्द-वृन्द-गुञ्जनोल्लसत्कपोल-मण्डलं श्रुति-प्रचालन-स्फुरत्समीरवीजिताननम् | वितुण्ड-शुण्डमण्डल-प्रसार-शोभिविग्रहं निवारिताघ-विघ्नराशिमङ्कलालपं भजे ||२|| गजेन्द्र-मौक्तिकालि-लग्न-कम्बुकण्ठ-पीठकं सुवर्णवल्लि-मण्डली-विधानबद्ध-दन्तकम् | प्रमोदि-मोदकाञ्चितं करण्डकं कराम्बुजे दधानमम्बिकामनो विनोद-मोद-दायकम् ||३|| गभीर-नाभि-तुन्दिलं सुपीत-पाट-धौतकं प्रतप्त-हाटकोपवीत-शोभिताङ्ग-सङ्ग्रहम् |
सुरा-ऽसुरार्चितांघ्रिकं शुभक्रिया सहायकं महेशचित्त-चायकं विनायकं नमाम्यहम् ||४||
गजाननं गणेश्वरं गिरीशजा-कुमारकं महेश्वरात्मजं मुनीन्द्र-मानसाधि-धावकम् | मतिप्रकर्ष-मण्डितं सुभक्त-चित्त-मोदकं भजज्जनालिघोर-विघ्नघातकं भजाम्यहम् ||५|| लसल्ललाट-चन्द्रकं क्रियाकृतेऽस्ततन्द्रकं महेन्द्रवन्द्य-पादुकं षडाननाग्रजानुजम् |
अहिं निवार्य मूषकाधिरक्षकं मयूरकं विलोक्य सुप्रसन्नमानसं गणाधिपं भजे ||
हरिं निरीक्ष्य भीतिचञ्चलाक्षमेत्य मातरं निजावनाय पार्श्वमागतां विलोक्य सत्वरम् | तदीय-वक्षसि प्रविश्य सुस्थिरं परे वरे नमामि सेवकालिशोक-शोषकं निरन्तरम् ||७|| निलिम्प-लोकमण्डलो-प्रपूर्ण-पूजनीयकं सुभक्त भक्तिभावना विभाविताखिलप्रदम् |
प्रभूत भूति भावकं दुरूह दुःख पावकं व्रजेश्वरांश-सम्भवं विद्युप्रभासितालिकम् ||८|| गिरीन्द्र-नन्दिनी-कराम्बुज-प्रसाधिताऽलकम् विलोल-शुण्ड-चुम्बितोग्र-भालचन्द्र-बालकम् | निजाखु-खेलनापरं कखन्त-मस्तचापलं नमामि सिद्धि-बुद्धि-हस्त-चालि-पञ्चचामरम् ||९|| विनायकस्य विनतिं पठतां श्रृण्वतां सताम् |
सिद्धि-बुद्धि-प्रदां सन्ति मङ्गलानि पदे पदे ||१०||
||इति पण्डित-श्रीशिवप्रसादद्विवेदि-विरचिता विनायक-विनतिः समाप्तः ||




उपसंहार प्रकाश  I*Iभुजंग प्रयात छन्द I*II [ राग मालकोंस ]
अमाया अकारंनमस्ते सकारं I
अमाया हि नामंनमस्ते सुनामं I I I I
अजन्मा अनादिंशची के सुतादिं I
उपाधिं रहिन्तं  I नम: ते उपाधिं I I I I
अमाया हि धामंनमस्ते सुधामं I
अमाया हि भेशंनमस्ते सुभेशं I I I I
नमस्ते अकालंमहाकाल कालं I
नमस्ते अकामंसुसेवं सुकामं I I I I
सुनामं प्रचारंकृपा नाहि पारं I
सदा निर्विकारंसुसत्त्वं विकारं I I I I
अकृष्णं हि कृष्णंमुकुन्दं हि तृष्णं I
महाभाव धारंकृपालं अपारं I I I I
गुणागार धारंगभीरं अपारं I
अखण्डं अनंतंअकिन्चन् दतारं I I I I
सुतत्त्वम् विरुद्धंसुसाजं सुगौरं I
प्रणामं प्रणामंप्रणामं प्रणामं I I I I




|| पुष्कराष्टकम् || श्रीगणेशाय नमः ||
श्रियायुतं त्रिदेहतापपापराशिनाशकं मुनीन्द्रसिद्धसाध्यदेवदानवैरभिष्टुतम् |
तटेस्ति यज्ञपर्वतस्य मुक्तिदं सुखाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् |||| सदार्यमासशुष्कपञ्चवासरे वरागतं तदन्यथान्तरिक्षगं सुतन्त्रभावनानुगम् | तदम्बुपानमज्जनं द्दशां सदामृताकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् |||| त्रिपुष्कर त्रिपुष्कर त्रिपुष्करेति संस्मरेत्स दूरदेशगोऽपि यस्तदङ्गपापनाशनम् | प्रपन्नदुःखभञ्जनं सुरञ्जनं सुधाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् |||| मृकण्डुमङ्कणौ पुलस्त्यकण्वपर्वतासिता अगस्त्यभार्गवौ दधीचिनारदौ शुकादयःI सपद्मतीर्थपावनैकद्दष्ट्यो दयाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ||||
सदा पितामहेक्षितं वराहविष्णुनेक्षितं तथाऽमरेश्वरेक्षितं सुरासुरैः समीक्षितम् |
इहैव भुक्तिमुक्तिदं प्रजाकरं घनाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् |||| त्रिदण्डिदण्डिब्रह्मचारितापसैः सुसेवितं पुरार्धचन्द्रप्राप्तदेवनन्दिकेश्वराभिधैः | सवैद्यनाथनीलकण्ठसेवितं सुधाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् |||| सुपञ्चधा सरस्वती विराजते यदन्त्तरे तथैकयोजनायतं विभाति तीर्थनायकम् | अनेकदैवपैत्रतीर्थसागरं रसाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् |||| यमादिसंयुतो नरस्त्रिपुष्करं निमज्जति पितामहश्च माधवोप्युमाधवः प्रसन्नताम् | प्रयाति तत्पदं ददात्ययत्नतो गुणाकरं नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ||||
इदं हि पुष्कराष्टकं सुनीतिनीरजाश्रितं स्थितं मदीयमानसे कदापि माऽपगच्छतु | त्रिसन्ध्यमापठन्ति ये त्रिपुष्कराष्टकं नराः प्रदीप्तदेहभूषणा भवन्ति मेशकिङ्कराः |||| इति श्रीपुष्कराष्टकं समाप्तम् ||







|| गङ्गाष्टकम् कालिदासकृतं ||
श्रीगणेशाय नमः ||
नमस्तेऽस्तु गङ्गे त्वदङ्गप्रसङ्गाद्भुजं गास्तुरङ्गाः कुरङ्गाः प्लवङ्गाः | अनङ्गारिरङ्गाः ससङ्गाः शिवाङ्गा भुजङ्गाधिपाङ्गीकृताङ्गा भवन्ति ||||
नमो जह्नुकन्ये मन्ये त्वदन्यैर्निसर्गेन्दुचिह्नादिभिर्लोकभर्तुः |
अतोऽहं नतोऽहं सतो गौरतोये वसिष्ठादिभिर्गीयमानाभिधेये ||||
त्वदामज्जनात्सज्जनो दुर्जनो वा विमानैः समानः समानैर्हि मानैः |
समायाति तस्मिन्पुरारातिलोके पुरद्वारसंरुद्धदिक्पाललोके |||| स्वरावासदम्भोलिदम्भोपि रम्भापरीरम्भसम्भावनाधीरचेताः |
समाकाङ्क्षते त्वत्तटे वृक्षवाटीकुटीरे वसन्नेतुमायुर्दिनानि ||||
त्रिलोकस्य भर्तुर्जटाजूटबन्धात्स्वसीमान्तभागे मनाक्प्रस्खलन्तः |
भवान्या रुषा प्रोढसापन्तभावात्करेणाहतास्तवत्तरङ्गा जयन्ति |||| जलोन्मज्जदैरावतोद्दानकुम्भस्फुरत्प्रस्खलत्सान्द्रसिन्दूररागे |
क्कचित्पद्मिनीरेणुभङ्गे प्रसङ्गे मनः खेलतां जह्नुकन्यातरङ्गे |||| भवत्तीरवानीरवातोत्थधूलीलवस्पर्शतस्तत्क्षणं क्षीणपापः |
जनोऽयं जगत्पावने त्वत्प्रसादात्पदे पौरुहूतेऽपि धत्तेऽवहेलाम् |||| त्रिसन्ध्यानमल्लेखकोटीरनानाविधानेकरत्नांशुबिम्बप्रभाभिः |
स्फुरत्पादपीठे हठेनाष्टमूर्तेर्जटाअजूटवासे नताः स्मः पदं ते ||||
इदं यः पठेदष्टकं जह्नुपुत्र्यास्रिकालं कृतं कालिदासेन रम्यम् | समायास्यतीन्द्रादिभिर्गीयमानं पदं कैशवं शैशवं नो लभेत्सः ||||
इति श्रीकालिदासकृतं गङ्गाष्टकस्तोत्रं सम्पूर्णम् ||






II यमुनाष्टकम् II II श्रीः II
मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्तपा त्रिलोकशोकहारिणी I मनोनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा IIII मलापहारिवारिपूरिभूरिमण्डितामृता भृशं प्रवातकप्रपञ्चनातिपण्डितानिशा I सुनन्दनन्दिनाङ्गसङ्गरागरञ्जिता हिता धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा IIII लसत्तरङ्गसङ्गधूतभूतजातपातका नवीनमधुरीधुरीणभक्तिजातचातका I तटान्तवासदासंहससंवृताह्रिकामदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा IIII विहाररासस्वेदभेदधीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता I प्रवाहसाहचर्यपूतमेदिनीनदीनदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा IIII तरङ्गसङ्गसैकतान्तरातितं सदासिता शरन्निशाकरांशुभमञ्जुमञ्जरी सभाजिता I भवार्चनाप्रचारुणाम्बुनाधुना विशारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा IIII जलान्तकेलिकारिचारुराधिकाङ्गरागिणी स्वभर्तुरन्यदुर्लभाङ्गताङ्गतांशभागिनी I स्वदत्तसुप्तसप्तसिन्धुभेदिनातिकोविदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा IIII जलच्युताच्युताङ्गरागलम्पटालिशालिनी विलोलराधिकाकचान्तचम्पकालिमालिनी I सदावगाहनावतीर्णभर्तृभृत्यनारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा IIII
सदैव नन्दिनन्दकेलिशालिकुञ्जमञ्जुला तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला I जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा IIII इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ यमुनाष्टकम् संपूर्णम् II








|| श्री गङ्गास्तोत्र || गंगास्तोत्र ||
देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे |
शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले ||||
भागिरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः |
नाहं जाने तव महिमानं पाहि कृपामयि मामज्नानम् ||||
हरि पद पाद्य तरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे |
दूरीकुरु मम दुष्कृति भारं कुरु कृपया भव सागर पारम् ||||
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् |
मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं यमः शक्तः ||||
पतितोद्धारिणि जाह्नवि गंगे खण्डित गिरिवरमण्डित भंगे |
भीष्म जननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ||||
कल्पलतामिव फलदाम् लोके प्रणमति यस्त्वां पतति शोके |
पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे ||||
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि जातः |
नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे ||||
पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे |
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ||||
रोगं शोकं तापं पापं हर मे भगवति कुमति कलापम् |
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ||||
अलकानंदे परमानंदे कुरु करुणामयि कातरवन्द्ये |
तव तट निकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः ||१०||
वरमिह मीरे कमठो मीनः किं वा तीरे शरटः क्षीणः |
अथवा श्वपचो मलिनो दीनः तव हि दूरे नृपतिकुलीनः ||११||
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये |
गंगास्तवमिमममलं नित्यं पठति नरो यः जयति सत्यम् ||१२||
येषां हृदये गंगा भक्तिः तेषां भवति सदा सुखमुक्तिः |
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलित ललिताभिः ||१३||
गंगास्तोत्रमिदं भवसारं वांछितफलदम् विमलं सारम् |
शंकरसेवक शंकर रचितं पठति सुखीः तव इति समाप्तम् ||१४||
|| इति श्रीमच्छंकराचार्यविरचितं गंगास्तोत्रं सम्पूर्णम् ||
|| हनुमत्ताण्डव स्तोत्रम् ||
वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम् | रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम् ||
भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम् |
सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं, समुद्रपारगामिनं, नमामि सिद्धकामिनम् ||||
सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि |
इति प्लवङ्गनाथभाषितं निशम्य वानराऽधिनाथ आप शं तदा, रामदूत आश्रयः |||| सुदीर्घबाहुलोचनेन, पुच्छगुच्छशोभिना, भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ |
कृतौ हि कोसलाधिपौ, कपीशराजसन्निधौ, विदहजेशलक्ष्मणौ, मे शिवं करोत्वरम् |||| सुशब्दशास्त्रपारगं, विलोक्य रामचन्द्रमाः, कपीश नाथसेवकं, समस्तनीतिमार्गगम् |
प्रशस्य लक्ष्मणं प्रति, प्रलम्बबाहुभूषितः कपीन्द्रसख्यमाकरोत्, स्वकार्यसाधकः प्रभुः |||| प्रचण्डवेगधारिणं, नगेन्द्रगर्वहारिणं, फणीशमातृगर्वहृद्दृशास्यवासनाशकृत् |
विभीषणेन सख्यकृद्विदेह जातितापहृत्, सुकण्ठकार्यसाधकं, नमामि यातुधतकम् |||| नमामि पुष्पमौलिनं, सुवर्णवर्णधारिणं गदायुधेन भूषितं, किरीटकुण्डलान्वितम् | सुपुच्छगुच्छतुच्छलंकदाहकं सुनायकं विपक्षपक्षराक्षसेन्द्र-सर्ववंशनाशकम् ||||
रघूत्तमस्य सेवकं नमामि लक्ष्मणप्रियं दिनेशवंशभूषणस्य मुद्रीकाप्रदर्शकम् | विदेहजातिशोकतापहारिणम् प्रहारिणम् सुसूक्ष्मरूपधारिणं नमामि दीर्घरूपिणम् |||| नभस्वदात्मजेन भास्वता त्वया कृतामहा सहायता यया द्वयोर्हितं ह्यभूत्स्वकृत्यतः | सुकण्ठ आप तारकां रघूत्तमो विदेहजां निपात्य वालिनं प्रभुस्ततो दशाननं खलम् ||||
इमं स्तवं कुजेऽह्नि यः पठेत्सुचेतसा नरः कपीशनाथसेवको भुनक्तिसर्वसम्पदः | प्लवङ्गराजसत्कृपाकताक्षभाजनस्सदा शत्रुतो भयं भवेत्कदापि तस्य नुस्त्विह |||| नेत्राङ्गनन्दधरणीवत्सरेऽनङ्गवासरे | लोकेश्वराख्यभट्टेन हनुमत्ताण्डवं कृतम् ||१०||
इति श्री हनुमत्ताण्डव स्तोत्रम् सम्पूर्णम् ||









|| राघवाष्टकम्  ||
राघवं करुणाकरं मुनि-सेवितं सुर- वन्दितं जानकीवदनारविन्द-दिवाकरं गुणभाजनम् | वालिसूनु-हितैषिणं हनुमत्प्रियं कमलेक्षणं यातुधान-भयंकरं प्रणमामि राघवकुञ्जरम् |||| मैथिलीकुच-भूषणामल-नीलमौक्तिकमीश्वरं रावणानुजपालनं रघुपुङ्गवं मम दैवतम् |
नागरी-वनिताननांबुज-बोधनीय-कलेवरं सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् |||| हेमकुण्डल-मण्डितामल-कण्ठदेशमरिन्दमं शातकुंभ-मयूरनेत्र-विभूषणेन-विभूषितम् | चारुनूपुर-हार-कौस्तुभ-कर्णभूषण-भूषितं भानुवंश-विवर्धनं प्रणमामि राघवकुञ्जरम् |||| दण्डकाख्यवने रतामर-सिद्धयोगि-गणाश्रयं शिष्टपालन-तत्परं धृतिशालिपार्थ-कृतस्तुतिम् | कुंभकर्ण-भुजाभुजंगविकर्तने सुविशारदं लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् |||| केतकी-करवीर-जाति-सुगन्धिमाल्य-सुशोभितं श्रीधरं मिथिलात्मजाकुच-कुंकुमारुण-वक्षसम् | देवदेवमशेषभूत-मनोहरं जगतां पतिं दासभूतभयापहं प्रणमामि राघवकुञ्जरम् ||||
यागदान-समाधि-होम-जपादिकर्मकरैर्द्विजैः वेदपारगतैरहर्निशमादरेण सुपूजितम् | ताटकावधहेतुमंगदतात-वालि-निषूदनं पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम् ||||
लीलया खरदूषणादि-निशाचराशु-विनाशनं रावणान्तकमच्युतं हरियूथकोटि-गणाश्रयम् | नीरजाननमंबुजांघ्रियुगं हरिं भुवनाश्रयं देवकार्य-विचक्षणं प्रणमामि राघवकुञ्जरम् |||| कौशिकेन सुशिक्षितास्त्र-कलापमायत-लोचनं चारुहासमनाथ-बन्धुमशेषलोक-निवासिनम् | वासवादि-सुरारि-रावणशासनं परांगतिं नीलमेघ-निभाकृतिं प्रणमामि राघवकुञ्जरम् |||| राघवाष्टकमिष्टसिद्धिदमच्युताश्रय-साधकं मुक्ति-भुक्तिफलप्रदं धन-धान्य-सिद्धि-विवर्धनम् | रामचन्द्र-कृपाकटाक्षदमादरेण सदा जपेत् रामचन्द्र-पदांबुजद्वय-सन्ततार्पित-मानसः |||| राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते | देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ||१०|| ||इति श्रीराघवाष्टकं संपूर्णम् ||

$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$








|| श्री परशुरामाष्टकम् ||
शुभ्रदेहं सदा क्रोधरक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् ,
विप्रवंशावतंसं धनुर्धारिणम् भव्ययज्ञोपवीतं कलाकारिणम्,
यस्य हस्ते कुठारं महातीक्ष्णकम् रेणुकानन्दनं जामदग्न्यं भजे ||||
सौम्यरुपं मनोज्ञं सुरैर्वन्दितम् जन्मतः ब्रह्मचारिव्रते सुस्थिरम्
पूर्णतेजस्विनं योगयोगीश्वरम् पापसन्तापरोगादिसंहारिणम्
दिव्यभव्यात्मकं शत्रुसंहारकम् रेणुकानन्दनं जामदग्न्यं भजे ||||
ऋद्धिसिद्धिप्रदाता विधाता भुवो ज्ञानविज्ञानदाता प्रदाता सुखम्
विश्वधाता सुत्राताऽखिलं विष्टपम् तत्वज्ञाता सदा पातु माम् निर्बलम्
पूज्यमानं निशानाथभासं विभुम् रेणुकानन्दनं जामदग्न्यं भजे ||||
दुःख दारिद्र्यदावाग्नये तोयदम् बुद्धिजाड्यं विनाशाय चैतन्यदम्
वित्तमैश्वर्यदानाय वित्तेश्वरम् सर्वशक्तिप्रदानाय लक्ष्मीपतिम्
मङ्गलं ज्ञानगम्यं जगत्पालकम् रेणुकानन्दनं जामदग्न्यं भजे ||||
यश्च हन्ता सहस्रार्जुनं हैहयम् त्रैगुणं सप्तकृत्वा महाक्रोधनैः
दुष्टशून्या धरा येन सत्यं कृता दिव्यदेहं दयादानदेवं भजे
घोररूपं महातेजसं वीरकम् रेणुकानन्दनं जामदग्न्यं भजे ||||
मारयित्वा महादुष्ट भूपालकान् येन शोणेन कुण्डेकृतं तर्पणम्
येन शोणीकृता शोणनाम्नी नदी स्वस्य देशस्य मूढा हताः द्रोहिणः
स्वस्य राष्ट्रस्य शुद्धिःकृता शोभना रेणुकानन्दनं जामदग्न्यं भजे ||||
दीनत्राता प्रभो पाहि माम् पालक ! रक्ष संसाररक्षाविधौ दक्षक !
देहि संमोहनी भाविनी पावनी स्वीय पादारविन्दस्य सेवा परा
पूर्णमारुण्यरूपं परं मञ्जुलम् रेणुकानन्दनं जामदग्न्यं भजे ||||
ये जयोद्घोषकाः पादसम्पूजकाः सत्वरं वाञ्छितं ते लभन्ते नराः
देहगेहादिसौख्यं परं प्राप्य वै दिव्यलोकं तथान्ते प्रियं यान्ति ते
भक्तसंरक्षकं विश्वसम्पालकम् रेणुकानन्दनं जामदग्न्यं भजे |||| ||
इति श्रीपरशुरामाष्टकं सम्पूर्णम् ||

||कृष्णाष्टकं ||
यत्र गायन्ति मद्भक्ताः तत्र तिष्ठामि नारद |
 श्री कृष्णाष्टकशंकर भागवतपाद
भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् |
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनंगरंगसागरं नमामि कृष्णनागरम् ||||
मनोजगर्वमोचनं विशाललोललोचनं विधूतगोपशोचनं नमामि पद्मलोचनम् | करारविन्दभूधरं स्मितावलोकसुन्दरं महेन्द्रमानदारणं नमामि कृष्णावारणम् ||||
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम् |
यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम् ||||
सदैव पादपंकजं मदीय मानसे निजं दधानमुक्तमालकं नमामि नन्दबालकम् | समस्तदोषशोषणं समस्तलोकपोषणं समस्तगोपमानसं नमामि नन्दलालसम् ||||
भुवो भरावतारकं भवाब्धिकर्णधारकं यशोमतीकिशोरकं नमामि चित्तचोरकम् | दृगन्तकान्तभंगिनं सदा सदालिसंगिनं दिने दिने नवं नवं नमामि नन्दसम्भवम् ||||
गुणाकरं सुखाकरं कृपाकरं कृपापरं सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् | नवीनगोपनागरं नवीनकेलिलम्पटं नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ||||
समस्तगोपनन्दनं हृदम्बुजैकमोदनं नमामि कुंजमध्यगं प्रसन्नभानुशोभनम् | निकामकामदायकं दृगन्तचारुसायकं रसालवेणुगायकं नमामि कुंजनायकम् ||||
विदग्धगोपिकामनोमनोज्ञतल्पशायिनं नमामि कुंजकानने प्रव्रद्धवन्हिपायिनम् | किशोरकान्तिरंजितं दृअगंजनं सुशोभितं गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् ||||
यदा तदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गीयतां तथा कृपा विधीयताम् | प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान ||||
इति श्रीमच्छंकराचार्यकृतं श्रीकृष्णाष्टकं सम्पूर्णम् || श्री कृष्णार्पणमस्तु ||

$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$





II श्री कृष्णाष्टकम् II
वसुदेवसुतं देवं कंसचाणूरमर्दनम्
देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम् II II
आतसीपुष्पसंकाशम् हारनूपुरशोभितम्
रत्नकण्कणकेयूरं कृष्णं वंदे जगद्गुरुम् II II
कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननम्
विलसत्कुण्डलधरं कृष्णं वंदे जगद्गुरुम् II II
मंदारगन्धसंयुक्तं चारुहासं चतुर्भुजम्
बर्हिपिञ्छावचूडाङ्गं कृष्णं वंदे जगद्गुरुम् II II
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्
यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरुम् II II
रुक्मिणीकेळिसंयुक्तं पीतांबरसुशोभितम्
अवाप्ततुलसीगन्धं कृष्णं वंदे जगद्गुरुम् II II
गोपिकानां कुचद्वन्द्व कुंकुमाङ्कितवक्षसम्
श्री निकेतं महेष्वासं कृष्णं वंदे जगद्गुरुम् II II
श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्
शङ्खचक्रधरं देवं कृष्णं वंदे जगद्गुरुम् II II
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् |
कोटिजन्मकृतं पापं स्मरणेन विनष्यति ||
|| इति कृष्णाष्टकम् ||


|| पांडुरंगाष्टकं ||
महायोगपीठे तटे भीमरथ्या वरं पुण्डरीकाय दातुं मुनीन्द्रैः |
समागत्य निष्ठन्तमानंदकंदं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ||||
तटिद्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशम् |
वरं त्विष्टकायां समन्यस्तपादं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ||||
प्रमाणं भवाब्धेरिदं मामकानां नितम्बः कराभ्यां धृतो येन तस्मात् |
विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् |||| स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम् |
शिवं शांतमीड्यं वरं लोकपालं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ||||
शरच्चंद्रबिंबाननं चारुहासं लसत्कुण्डलाक्रांतगण्डस्थलांतम् |
जपारागबिंबाधरं ~जनेत्रं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्|||| किरीटोज्वलत्सर्वदिक्प्रांतभागं सुरैरर्चितं दिव्यरत्नैरनर्घैः |
त्रिभङ्गाकृतिं बर्हमाल्यावतंसं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्||||
विभुं वेणुनादं चरंतं दुरंतं स्वयं लीलया गोपवेषं दधानम् |
गवां बृन्दकानन्ददं चारुहासं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ||||
अजं रुक्मिणीप्राणसञ्जीवनं तं परं धाम कैवल्यमेकं तुरीयम् |
प्रसन्नं प्रपन्नार्तिहं देवदेवं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ||||
स्तवं पाण्डुरंगस्य वै पुण्यदं ये पठन्त्येकचित्तेन भक्त्या नित्यम् |
भवांभोनिधिं ते वितीर्त्वान्तकाले हरेरालयं शाश्वतं प्राप्नुवन्ति ||
|| इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ पाण्डुरङ्गाष्टकं संपूर्णम् ||




दुर्गा आपदुद्धाराष्टकम् ||
नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे |
नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे || ||
नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे |
नमस्ते नमस्ते सदानन्द रूपे नमस्ते जगत्तारिणि त्राहि दुर्गे || ||
अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः |
त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे || ||
अरण्ये रणे दारुणे शुत्रुमध्ये जले सङ्कटे राजग्रेहे प्रवाते |
त्वमेका गतिर्देवि निस्तार हेतुर्नमस्ते जगत्तारिणि त्राहि दुर्गे || ||
अपारे महदुस्तरेऽत्यन्तघोरे विपत् सागरे मज्जतां देहभाजाम् |
त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे || ||
नमश्चण्डिके चण्डोर्दण्डलीलासमुत्खण्डिता खण्डलाशेषशत्रोः |
त्वमेका गतिर्विघ्नसन्दोहहर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे || ||
त्वमेका सदाराधिता सत्यवादिन्यनेकाखिला क्रोधना क्रोधनिष्ठा |
इडा पिङ्गला त्वं सुषुम्ना नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे || ||
नमो देवि दुर्गे शिवे भीमनादे सदासर्वसिद्धिप्रदातृस्वरूपे |
विभूतिः सतां कालरात्रिस्वरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे || ||
शरणमसि सुराणां सिद्धविद्याधराणां मुनिदनुजवराणां व्याधिभिः पीडितानाम् |
नृपतिगृहगतानां दस्युभिस्त्रासितानां त्वमसि शरणमेका देवि दुर्गे प्रसीद || ||
|| इति सिद्धेश्वरतन्त्रे हरगौरीसंवादे आपदुद्धाराष्टकस्तोत्रं सम्पूर्णम् ||



रामाष्टकं   अथ रामाष्टकम्
सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम्
कारुण्य पात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि १॥
संसारसारं निगमं प्रचारं धर्मावतारं हत भूमि भारम्
सदा निर्विकारं सुख सिन्धुसारं श्रीरामचन्द्रं सततं नमामि २॥
लक्ष्मी विलासं जगतां निवासं भूदेव वासं सुख सिन्धु हासम्
लङ्का विनाशं भवनं प्रकाशं श्रीरामचन्द्रं सततं नमामि ३॥
मंदारमालं वचने रसालं गुणयं विशालं हत सप्ततालम्
क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ४॥
वेदांत ज्ञानं सकल सतानं हंतारमानं त्रिदशं प्रधानम्
गजेन्द्रपालं विगता विशालं श्रीरामचन्द्रं सततं नमामि ५॥
खेलाऽतिभीतं स्वजने पुनीतं स्यामो प्रगीतं वचने अहीतम्
रागेनगीतं वचने अहीतं श्रीरामचन्द्रं सततं नमामि ६॥
लीलाशरीरं रणरङ्ग धीरं विश्वैकवीरं रघुवंशधारम्
गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ७॥
श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामं
विश्वप्रणामंकत भक्तिकामं श्रीरामचन्द्रं सततं नमामि ८॥

  इति रामाष्टकं सम्पूर्णम्